Skip to content

NCERT Solutions for Class 7 Sanskrit Chapter 12 Virangana Pannadhaya (PDF) – 2027

NCERT Solutions for Class 7 Sanskrit Chapter 12 Virangana Pannadhaya – step-by-step answers to every exercise and in-text question of the chapter, as per the latest NCERT syllabus for 2027. Read them online or download the free question-answer PDF.

द्वादशः पाठः — वीराङ्गना पन्नाधाया मेवाड की उस धाय-माता की ऐतिहासिक गाथा है जिसने राजकुमार उदयसिंह को बचाने के लिए अपने ही पुत्र चन्दन का बलिदान कर दिया। यह गद्यपाठ त्याग, कर्तव्यनिष्ठा तथा राष्ट्रहित का पाठ पढ़ाता है और साथ ही लङ्-लकार (भूतकाल) का व्याकरण-अभ्यास कराता है।

NCERT Solutions for Class 7 Sanskrit Chapter 12 Virangana Pannadhaya PDF

All the answers are on this page below. The PDF also explains every answer – why it is right and how to check it – so download it for revision.

PDFChapterDownload
Solutions PDFVirangana PannadhayaView PDF

पाठ का हिंदी अनुवाद

एषा भारतभूमिः वीराणां त्यागधनानां भूमिः अस्ति। सर्वे भारतीयाः ‘एषा भूमिः अस्माकं माता’ इति वदन्ति।
यह भारतभूमि वीरों और त्याग को ही धन मानने वाले बलिदानियों की भूमि है। सभी भारतीय कहते हैं — ‘यह भूमि हमारी माता है।’
अथर्ववेदे ‘माता भूमिः पुत्रोऽहं पृथिव्याः’ इति उक्तम्। मातृभूमेः रक्षणार्थं भारतीयाः सर्वस्वम् अर्पितवन्तः।
अथर्ववेद में कहा गया है — ‘भूमि (मेरी) माता है, मैं पृथ्वी का पुत्र हूँ।’ मातृभूमि की रक्षा के लिए भारतीयों ने अपना सब कुछ अर्पित कर दिया।
एतादृशानां भारतीयानां गणनायां महिलानां प्रभूतं योगदानम् अस्ति। त्यागे वीरतायां च महिलाः शत्रुनिबर्हणाः आसन्।
ऐसे भारतीयों की गिनती में महिलाओं का बहुत अधिक योगदान है। त्याग और वीरता में महिलाएँ शत्रुओं का विनाश करने वाली थीं।
एतादृशीषु वीराङ्गनासु राजस्थानस्य पन्नाधाया काचिद् विशिष्टा वीराङ्गना आसीत्। एषा साहसस्य त्यागस्य निष्ठायाः च अद्वितीया मूर्तिः आसीत्।
ऐसी वीर नारियों में राजस्थान की पन्नाधाय एक विशेष वीरांगना थीं। वे साहस, त्याग और निष्ठा की अनुपम मूर्ति थीं।
अस्मिन् पाठे तस्याः त्यागस्य पराक्रमस्य च वर्णनं कृतम्। एषा इतिहासस्य स्वर्णिमाक्षरैः लिखिता घटना अस्ति।
इस पाठ में उनके त्याग और पराक्रम का वर्णन किया गया है। यह इतिहास की सोने के अक्षरों से लिखी गई घटना है।
षोडशे शतके मेवाडनगरे महाराणा-सङ्ग्रामसिंहः इति सुविख्यातः महाराजः आसीत्। तस्य द्वौ पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्।
सोलहवीं शताब्दी में मेवाड नगर में महाराणा संग्रामसिंह नाम के सुप्रसिद्ध महाराज थे। उनके दो पुत्र थे — विक्रमादित्य और उदयसिंह।
महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः। बनवीरः पृथ्वीराजस्य अष्टादशसु पुत्रेषु अन्यतमः।
महाराणा संग्रामसिंह के भाई पृथ्वीराज थे। बनवीर पृथ्वीराज के अठारह पुत्रों में से एक था।
सः बनवीरः महाराणासङ्ग्रामसिंहस्य प्रथमं पुत्रं विक्रमादित्यं छलेन मारयित्वा मेवाडस्य शासनम् अकरोत्।
उस बनवीर ने महाराणा संग्रामसिंह के पहले पुत्र विक्रमादित्य को कपट से मारकर मेवाड पर शासन किया।
ततः परमपि सः दुष्टबुद्धिः अचिन्तयत् यत् – “अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात्” इति।
उसके बाद भी उस दुष्ट बुद्धि वाले (बनवीर) ने सोचा कि — “मैं अकेला ही उत्तराधिकारी बनूँ। मेरा कोई भी प्रतिद्वन्द्वी न रहे।”
अतः कदाचित् रात्रौ सः उदयसिंहं मारयितुं कुतन्त्रम् अरचयत्। तद् ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती।
इसलिए एक बार रात में उसने उदयसिंह को मारने के लिए षड्यन्त्र रचा। यह जानकर पन्नाधाय ने उदयसिंह के सोने के स्थान पर अपने पुत्र चन्दन को सुला दिया।
सा तस्य दुष्परिणामं जानाति स्म। बनवीरः उदयसिंहस्य शयनागारम् आगच्छत्।
वे इसका बुरा परिणाम जानती थीं। बनवीर उदयसिंह के शयन-कक्ष में आया।
तत्र सुप्तः चन्दनः एव उदयसिंहः इति मत्वा बनवीरः चन्दनम् अमारयत्।
वहाँ सोए हुए चन्दन को ही उदयसिंह मानकर बनवीर ने चन्दन को मार डाला।
पन्नाधायायाः निर्णयः अकल्पनीयः आसीत्। ‘व्यक्तिहितं न, राष्ट्रहितम् एव श्रेष्ठम्’ इति सा जानाति स्म।
पन्नाधाय का निर्णय कल्पना से परे था। वे जानती थीं कि ‘अपना (व्यक्ति का) हित नहीं, राष्ट्र का हित ही सर्वोपरि है।’
तस्याः पुत्रस्तु दिवङ्गतः, परं सा मेवाडराज्यं बनवीरस्य कुतन्त्रात् अरक्षत्।
उनका पुत्र तो स्वर्ग सिधार गया, परन्तु उन्होंने मेवाड राज्य को बनवीर के षड्यन्त्र से बचा लिया।
कालान्तरे सः एव उदयसिंहः युद्धे बनवीरं हत्वा मेवाडराज्यस्य राजा अभवत्। तस्य पुत्रः एव पराक्रमी योद्धा महाराणाप्रतापः।
कुछ समय बाद वही उदयसिंह युद्ध में बनवीर को मारकर मेवाड राज्य का राजा बना। उन्हीं के पुत्र पराक्रमी योद्धा महाराणा प्रताप थे।
सः प्रतापः शौर्येण भारतीयानां हृदये चिरं स्थानं प्राप्नोत्।
उन प्रताप ने अपनी शूरता से भारतीयों के हृदय में बहुत काल तक रहने वाला (अमिट) स्थान प्राप्त किया।
कथ्यते एव – “यदि पन्नाधाया स्वपुत्रस्य बलिदानं न अकरिष्यत् तर्हि उदयसिंहः न अभविष्यत्। यदि उदयसिंहः न अभविष्यत् तर्हि महाराणाप्रतापः अपि न अभविष्यत्”।
कहा भी जाता है — “यदि पन्नाधाय अपने पुत्र का बलिदान न करतीं तो उदयसिंह न होते। यदि उदयसिंह न होते तो महाराणा प्रताप भी न होते।”
पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्कं तिष्ठति। भारतीये इतिहासे वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं प्राप्नोत्।
पन्नाधाय का त्याग और शौर्य संसार में तब तक बना रहेगा जब तक सूर्य और चन्द्रमा हैं। भारतीय इतिहास में वीरांगनाओं की गिनती में पन्नाधाय ने सबसे श्रेष्ठ स्थान प्राप्त किया।
पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं, कर्तव्यनिष्ठां, बलिदानं, विवेकं च शिक्षयति। उच्यते एव –
पन्नाधाय का बलिदान सबको शौर्य, राष्ट्रभक्ति, कर्तव्यनिष्ठा, बलिदान और विवेक सिखाता है। कहा भी जाता है —
“यदि पन्नाधाया नाभविष्यत् तर्हि कुतो राणाप्रतापः”
“यदि पन्नाधाय न होतीं तो राणा प्रताप कहाँ से होते?”

NCERT Solutions for Class 7 Sanskrit Chapter 12 Virangana Pannadhaya – Questions and Answers

All questions of the chapter are answered below, in the order of the book – in-text questions, activities and the end-of-chapter exercises. Each answer is written the way you would write it in the exam.

वयं शब्दार्थान् जानीमः — पृष्ठ 130–131शब्दार्थाः (मातृभाषया अर्थं लिखन्तु)

शब्दार्थाः
प्र.1मातृभाषया अर्थं लिखन्तु। (पाठे प्रदत्तानां शब्दानाम् अर्थः संस्कृते, हिन्द्याम्, आङ्ग्लभाषायां च दत्तः अस्ति; छात्राः स्वमातृभाषया अर्थं लिखन्तु।)
उत्तर

अधः पाठस्य समग्रा शब्दार्थ-सूची दत्ता अस्ति। अन्तिमः स्तम्भः स्वयं पूरणीयः — यत्र छात्रः स्वमातृभाषया (मराठी, बाङ्ग्ला, तमिळ, गुजराती, ओडिआ … यथारुचि) अर्थं लिखेत्।

[हिन्दी अर्थ — नीचे पाठ के सभी शब्द, उनका संस्कृत पर्याय, हिन्दी अर्थ और अंग्रेज़ी अर्थ दिया है। अन्तिम स्तम्भ अपनी मातृभाषा में स्वयं भरें।]

शब्दःअर्थःहिन्दीEnglish
त्यागधनानाम्त्यागमूर्तीनाम्बलिदानियों कीOf people who sacrifice everything
सर्वस्वम्स्वीयं सम्पूर्णम्अपना सब कुछOne’s Everything
प्रभूतम्प्रचुरम्अधिकAbundant
शत्रुनिबर्हणाःअरिविनाशकाःशत्रुओं का विनाशकDestroyers of enemies
वीराङ्गनासुवीरनारीषुवीर नारियों मेंAmong brave women
साहसस्यवीरतायाःसाहस काOf courage
स्वर्णिमाक्षरैःसुवर्णाक्षरैःसोने के अक्षरों सेWith golden letters
षोडशे शतकेषोडश-शताब्द्याम्सोलहवीं शताब्दी मेंIn the sixteenth century
छलेनवञ्चनेनकपट सेBy deception
कुतन्त्रम्कुचक्रम्षड्यन्त्रEvil plot
अद्वितीयम्अनुपमम्सर्वोत्कृष्टMatchless
धायाधात्रीधाय / दाईWet Nurse
आस्ताम्अभवताम्दो थेTwo were present
अन्यतमःबहुषु एकःबहुतों में एकOne of many
दुष्टबुद्धिःदुर्बुद्धिःदुष्ट बुद्धि वालाEvil minded
प्रतिस्पर्धीस्पर्धालुःप्रतिद्वन्द्वीCompetitor
मारयितुम्हन्तुम्मारने के लिएTo kill
कदाचित्कस्मिंश्चित् समयेकभीSometime
शायितवतीशयनं कारितवतीसुलायाPut to sleep
दुष्परिणामम्कुपरिणामम्अनिष्ट कोBad outcome
शयनागारम्शयनप्रकोष्ठम्सोने के कक्ष कोBedroom
कल्पनातीतःअकल्पनीयःचिन्तन से परेBeyond imagination
व्यक्तिहितम्निजहितम्स्वार्थSelf interest
राष्ट्रहितम्देशकल्याणम्राष्ट्र का हितNational’s interest
श्रेष्ठम्शीर्ष-स्थानीयम्सर्वोपरिHighest
कालान्तरेपरवर्ति-समयेकुछ समय के बादLater on
हत्वामारयित्वामारकरHaving killed
पराक्रमीविक्रमीवीरValorous
योद्धायुद्धे समर्थःसैनिकWarrior
स्वसामर्थ्येनस्वस्य बलेनस्वयं की शक्ति सेBy one’s own capability
शौर्येणशूरतायाः कारणेनशूरता सेWith bravery
चिरम्बहुकालम्बहुत काल तकFor long time
जगतिविश्वेसंसार मेंIn the world
आचन्द्रार्कम्सूर्यस्य चन्द्रस्य च अस्तित्व-पर्यन्तम्जब तक सूर्य और चन्द्र हैंAs long as the sun and the moon are there
गणनासुशृङ्खलासुगिनतियों मेंAmongst the consideration of
महत्तमम्बहुषु श्रेष्ठम्बहुतों में श्रेष्ठBest among the greats

उच्चैः पठन्तु, अवगच्छन्तु च — पृष्ठ 131लङ्-लकारः (भूतकाले एतस्य लकारस्य प्रयोगः भवति) — पठ् धातुः (परस्मैपदम्)

व्याकरणम्
प्र.2उच्चैः पठन्तु, अवगच्छन्तु च — लङ्-लकारः (भूतकाले एतस्य लकारस्य प्रयोगः भवति)। पठ् धातुः (परस्मैपदम्) — एकवचनम् / द्विवचनम् / बहुवचनम्।
उत्तर

लङ्-लकारः = भूतकालः (जो काम बीत चुका)। धातोः पूर्वम् अ योजयित्वा पुरुष-वचनानुसारं प्रत्ययाः योज्यन्ते।

पठ् धातुःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअपठत्अपठताम्अपठन्
मध्यमपुरुषःअपठःअपठतम्अपठत
उत्तमपुरुषःअपठम्अपठावअपठाम

वयं वाक्येषु लङ्लकारस्य प्रयोगं पठामः — पृष्ठ 132पुरुष-वचनानुसारं वाक्यप्रयोगः

व्याकरणम्
प्र.3वयं वाक्येषु लङ्लकारस्य प्रयोगं पठामः। (एकवचनम् / द्विवचनम् / बहुवचनम् — प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः)
उत्तर

पुस्तके प्रदत्तानि वाक्यानि एतानि —

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःबालकः पाठम् अपठत्बालकौ पाठम् अपठताम्बालकाः पाठम् अपठन्
मध्यमपुरुषःत्वं पाठम् अपठःयुवां पाठम् अपठतम्यूयं पाठम् अपठत
उत्तमपुरुषःअहं पाठम् अपठम्आवां पाठम् अपठाववयं पाठम् अपठाम

वयम् अभ्यासं कुर्मः — पृष्ठ 132१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु

अभ्यासः
प्र.4(क) राजस्थानस्य वीराङ्गनासु का सुविख्याता ?
उत्तर

पन्नाधाया।

[हिन्दी अर्थ — राजस्थान की वीरांगनाओं में पन्नाधाया सुविख्यात हैं।]

प्र.5(ख) उदयसिंहः कस्य पुत्रः ?
उत्तर

महाराणासङ्ग्रामसिंहस्य।

[हिन्दी अर्थ — उदयसिंह महाराणा सङ्ग्रामसिंह के पुत्र थे।]

प्र.6(ग) बनवीरः कं मारयितुम् कुतन्त्रम् अरचयत् ?
उत्तर

उदयसिंहम्।

[हिन्दी अर्थ — बनवीर ने उदयसिंह को मारने के लिए षड्यन्त्र रचा।]

प्र.7(घ) कालान्तरे कः मेवाडस्य राजा अभवत् ?
उत्तर

उदयसिंहः।

[हिन्दी अर्थ — कुछ समय बाद उदयसिंह मेवाड के राजा बने।]

प्र.8(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत् ?
उत्तर

अकल्पनीयः (कल्पनातीतः)।

[हिन्दी अर्थ — पन्नाधाया का निर्णय अकल्पनीय अर्थात् कल्पना से परे था।]

प्र.9(च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत् ?
उत्तर

भारतीयानाम्।

[हिन्दी अर्थ — महाराणा प्रताप ने भारतीयों के हृदय में बहुत काल तक स्थान पाया।]

वयम् अभ्यासं कुर्मः — पृष्ठ 132२. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु

अभ्यासः
प्र.10(क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति ?
उत्तर

पन्नाधाया साहसस्य त्यागस्य निष्ठायाः च अद्वितीयम् उदाहरणम् अस्ति।

[हिन्दी अर्थ — पन्नाधाया साहस, त्याग और निष्ठा का अद्वितीय उदाहरण हैं।]

प्र.11(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम् ?
उत्तर

महाराणासङ्ग्रामसिंहस्य पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्।

[हिन्दी अर्थ — महाराणा सङ्ग्रामसिंह के दो पुत्र थे — विक्रमादित्य और उदयसिंह।]

प्र.12(ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत् ?
उत्तर

दुष्टबुद्धिः बनवीरः अचिन्तयत् यत् — “अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात्” इति।

[हिन्दी अर्थ — दुष्ट बुद्धि वाले बनवीर ने सोचा कि “मैं ही अकेला उत्तराधिकारी बनूँ, मेरा कोई प्रतिद्वन्द्वी न रहे।”]

प्र.13(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत् ?
उत्तर

बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती।

[हिन्दी अर्थ — बनवीर का षड्यन्त्र जानकर पन्नाधाया ने उदयसिंह के सोने के स्थान पर अपने पुत्र चन्दन को सुला दिया।]

प्र.14(ङ) आचन्द्रार्कं किं तिष्ठति ?
उत्तर

पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्कं तिष्ठति।

[हिन्दी अर्थ — पन्नाधाया का त्याग और शौर्य संसार में तब तक रहेगा जब तक सूर्य और चन्द्र हैं।]

प्र.15(च) पन्नाधायायाः बलिदानं किं शिक्षयति ?
उत्तर

पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं, कर्तव्यनिष्ठां, बलिदानं, विवेकं च शिक्षयति।

[हिन्दी अर्थ — पन्नाधाया का बलिदान सबको शौर्य, राष्ट्रभक्ति, कर्तव्यनिष्ठा, बलिदान और विवेक सिखाता है।]

वयम् अभ्यासं कुर्मः — पृष्ठ 133३. उदाहरणानुसारम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु

अभ्यासः
प्र.16(क) [उदाहरणम्] एकवचनम् — अमिलत् , द्विवचनम् — अमिलताम् , बहुवचनम् — अमिलन्
उत्तर

एतत् पुस्तके प्रदत्तम् उदाहरणम् अस्ति — अमिलत् / अमिलताम् / अमिलन्।

[हिन्दी अर्थ — यह पुस्तक में लाल रंग से भरा हुआ नमूना है — ‘मिल्’ धातु, लङ्-लकार, प्रथमपुरुष।]

प्र.17(ख) एकवचनम् — ……….., द्विवचनम् — अवदतम् , बहुवचनम् — ………..
उत्तर

दत्तं पदम् अवदतम् = वद् धातुः, लङ्-लकारः, मध्यमपुरुषः द्विवचनम्।

एकवचनम्द्विवचनम्बहुवचनम्
अवदःअवदतम्अवदत

[हिन्दी अर्थ — त्वम् अवदः = तूने कहा; युवाम् अवदतम् = तुम दोनों ने कहा; यूयम् अवदत = तुम सबने कहा।]

प्र.18(ग) एकवचनम् — अखादः , द्विवचनम् — ……….., बहुवचनम् — ………..
उत्तर

दत्तं पदम् अखादः = खाद् धातुः, लङ्-लकारः, मध्यमपुरुषः एकवचनम्।

एकवचनम्द्विवचनम्बहुवचनम्
अखादःअखादतम्अखादत

[हिन्दी अर्थ — त्वम् अखादः = तूने खाया; युवाम् अखादतम् = तुम दोनों ने खाया; यूयम् अखादत = तुम सबने खाया।]

प्र.19(घ) एकवचनम् — ……….., द्विवचनम् — ……….., बहुवचनम् — अलिखन्
उत्तर

दत्तं पदम् अलिखन् = लिख् धातुः, लङ्-लकारः, प्रथमपुरुषः बहुवचनम्।

एकवचनम्द्विवचनम्बहुवचनम्
अलिखत्अलिखताम्अलिखन्

[हिन्दी अर्थ — सः अलिखत् = उसने लिखा; तौ अलिखताम् = उन दोनों ने लिखा; ते अलिखन् = उन सबने लिखा।]

प्र.20(ङ) एकवचनम् — ……….., द्विवचनम् — अरक्षाव , बहुवचनम् — ………..
उत्तर

दत्तं पदम् अरक्षाव = रक्ष् धातुः, लङ्-लकारः, उत्तमपुरुषः द्विवचनम्।

एकवचनम्द्विवचनम्बहुवचनम्
अरक्षम्अरक्षावअरक्षाम

[हिन्दी अर्थ — अहम् अरक्षम् = मैंने रक्षा की; आवाम् अरक्षाव = हम दोनों ने रक्षा की; वयम् अरक्षाम = हम सबने रक्षा की।]

प्र.21(च) एकवचनम् — ……….., द्विवचनम् — ……….., बहुवचनम् — अपिबत
उत्तर

दत्तं पदम् अपिबत = पिब् (पा) धातुः, लङ्-लकारः, मध्यमपुरुषः बहुवचनम्।

एकवचनम्द्विवचनम्बहुवचनम्
अपिबःअपिबतम्अपिबत

[हिन्दी अर्थ — त्वम् अपिबः = तूने पिया; युवाम् अपिबतम् = तुम दोनों ने पिया; यूयम् अपिबत = तुम सबने पिया।]

प्र.22(छ) एकवचनम् — अपृच्छम् , द्विवचनम् — ……….., बहुवचनम् — ………..
उत्तर

दत्तं पदम् अपृच्छम् = पृच्छ् (प्रच्छ्) धातुः, लङ्-लकारः, उत्तमपुरुषः एकवचनम्।

एकवचनम्द्विवचनम्बहुवचनम्
अपृच्छम्अपृच्छावअपृच्छाम

[हिन्दी अर्थ — अहम् अपृच्छम् = मैंने पूछा; आवाम् अपृच्छाव = हम दोनों ने पूछा; वयम् अपृच्छाम = हम सबने पूछा।]

प्र.23(ज) एकवचनम् — ……….., द्विवचनम् — अमारयताम् , बहुवचनम् — ………..
उत्तर

दत्तं पदम् अमारयताम् = मारय् धातुः, लङ्-लकारः, प्रथमपुरुषः द्विवचनम्।

एकवचनम्द्विवचनम्बहुवचनम्
अमारयत्अमारयताम्अमारयन्

[हिन्दी अर्थ — सः अमारयत् = उसने मारा; तौ अमारयताम् = उन दोनों ने मारा; ते अमारयन् = उन सबने मारा।]

प्र.24(झ) एकवचनम् — ……….., द्विवचनम् — ……….., बहुवचनम् — अभवाम
उत्तर

दत्तं पदम् अभवाम = भू धातुः, लङ्-लकारः, उत्तमपुरुषः बहुवचनम्।

एकवचनम्द्विवचनम्बहुवचनम्
अभवम्अभवावअभवाम

[हिन्दी अर्थ — अहम् अभवम् = मैं हुआ; आवाम् अभवाव = हम दोनों हुए; वयम् अभवाम = हम सब हुए।]

वयम् अभ्यासं कुर्मः — पृष्ठ 133४. वाक्यानि पठित्वा उदाहरणानुसारं वचनपरिवर्तनं कुर्वन्तु

अभ्यासः
प्र.25(क) सः शालाम् अगच्छत्। [उदाहरणम् — द्विवचनम् : तौ शालाम् अगच्छताम्।]
उत्तर

द्विवचनम् — तौ शालाम् अगच्छताम्। (पुस्तके प्रदत्तम् उदाहरणम्)
बहुवचनम् — ते शालाम् अगच्छन्।

[हिन्दी अर्थ — वे दोनों विद्यालय गए। / वे सब विद्यालय गए।]

प्र.26(ख) बालिका पद्यम् अलिखत्।
उत्तर

द्विवचनम् — बालिके पद्यम् अलिखताम्।
बहुवचनम् — बालिकाः पद्यम् अलिखन्।

[हिन्दी अर्थ — दोनों बालिकाओं ने पद्य लिखा। / सब बालिकाओं ने पद्य लिखा।]

प्र.27(ग) शिक्षकः अवदत्।
उत्तर

द्विवचनम् — शिक्षकौ अवदताम्।
बहुवचनम् — शिक्षकाः अवदन्।

[हिन्दी अर्थ — दोनों शिक्षकों ने कहा। / सब शिक्षकों ने कहा।]

प्र.28(घ) सा चित्रम् अपश्यत्।
उत्तर

द्विवचनम् — ते चित्रम् अपश्यताम्।
बहुवचनम् — ताः चित्रम् अपश्यन्।

[हिन्दी अर्थ — उन दोनों ने चित्र देखा। / उन सबने चित्र देखा।]

प्र.29(ङ) त्वम् अक्रीडः।
उत्तर

द्विवचनम् — युवाम् अक्रीडतम्।
बहुवचनम् — यूयम् अक्रीडत।

[हिन्दी अर्थ — तुम दोनों खेले। / तुम सब खेले।]

प्र.30(च) त्वं जलम् अनयः।
उत्तर

द्विवचनम् — युवां जलम् अनयतम्।
बहुवचनम् — यूयं जलम् अनयत।

[हिन्दी अर्थ — तुम दोनों जल लाए। / तुम सब जल लाए।]

प्र.31(छ) अहं मन्दिरम् अगच्छम्।
उत्तर

द्विवचनम् — आवां मन्दिरम् अगच्छाव।
बहुवचनम् — वयं मन्दिरम् अगच्छाम।

[हिन्दी अर्थ — हम दोनों मन्दिर गए। / हम सब मन्दिर गए।]

प्र.32(ज) अहं मधुरम् अखादम्।
उत्तर

द्विवचनम् — आवां मधुरम् अखादाव।
बहुवचनम् — वयं मधुरम् अखादाम।

[हिन्दी अर्थ — हम दोनों ने मीठा खाया। / हम सबने मीठा खाया।]

वयम् अभ्यासं कुर्मः — पृष्ठ 133–134५. उदाहरणानुसारं रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु

अभ्यासः
प्र.33यथा – महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः। [रेखाङ्कितम् — महाराणासङ्ग्रामसिंहस्य]
उत्तर

कस्य भ्राता पृथ्वीराजः? (पुस्तके प्रदत्तम् उदाहरणम्)

[हिन्दी अर्थ — पृथ्वीराज किसके भाई थे?]

प्र.34(क) सः अचिन्तयत्। [रेखाङ्कितम् — सः]
उत्तर

कः अचिन्तयत्?

[हिन्दी अर्थ — किसने सोचा?]

प्र.35(ख) शयनस्थाने चन्दनं शायितवती। [रेखाङ्कितम् — शयनस्थाने]
उत्तर

कुत्र चन्दनं शायितवती?

[हिन्दी अर्थ — उसने चन्दन को कहाँ सुलाया?]

प्र.36(ग) राष्ट्रहितं श्रेष्ठम्। [रेखाङ्कितम् — राष्ट्रहितम्]
उत्तर

किं श्रेष्ठम्?

[हिन्दी अर्थ — क्या श्रेष्ठ है?]

प्र.37(घ) बनवीरः चन्दनम् अमारयत्। [रेखाङ्कितम् — चन्दनम्]
उत्तर

बनवीरः कम् अमारयत्?

[हिन्दी अर्थ — बनवीर ने किसको मारा?]

प्र.38(ङ) तस्याः निर्णयः अकल्पनीयः आसीत्। [रेखाङ्कितम् — तस्याः]
उत्तर

कस्याः निर्णयः अकल्पनीयः आसीत्?

[हिन्दी अर्थ — किसका निर्णय अकल्पनीय था?]

प्र.39(च) उदयसिंहः मेवाडस्य राजा अभवत्। [रेखाङ्कितम् — उदयसिंहः]
उत्तर

कः मेवाडस्य राजा अभवत्?

[हिन्दी अर्थ — मेवाड का राजा कौन बना?]

प्र.40(छ) मम प्रतिस्पर्धी न स्यात्। [रेखाङ्कितम् — मम]
उत्तर

कस्य प्रतिस्पर्धी न स्यात्?

[हिन्दी अर्थ — किसका प्रतिद्वन्द्वी न हो?]

वयम् अभ्यासं कुर्मः — पृष्ठ 134६. उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु

अभ्यासः
प्र.41(क) मम + अपि = ……….. [यथा – विद्या + अभ्यासः = विद्याभ्यासः]
उत्तर

ममापि।

मम + अपि → मअ + अपि → अ + अ = आ → ममापि

[हिन्दी अर्थ — ‘मेरा भी’। ‘अ’ और ‘अ’ मिलकर ‘आ’ हो गया।]

प्र.42(ख) विद्या + अर्थी = ………..
उत्तर

विद्यार्थी।

विद्या + अर्थी → आ + अ = आ → विद्यार्थी

[हिन्दी अर्थ — विद्या चाहने वाला = विद्यार्थी।] सन्धिः — सवर्णदीर्घः।

प्र.43(ग) सह + अनुभूतिः = ………..
उत्तर

सहानुभूतिः।

सह + अनुभूतिः → अ + अ = आ → सहानुभूतिः

[हिन्दी अर्थ — सहानुभूति = दूसरे के साथ वैसा ही अनुभव करना।] सन्धिः — सवर्णदीर्घः।

प्र.44(घ) कवि + इन्द्रः = ………..
उत्तर

कवीन्द्रः।

कवि + इन्द्रः → इ + इ = ई → कवीन्द्रः

[हिन्दी अर्थ — कवियों में इन्द्र अर्थात् श्रेष्ठ कवि।] सन्धिः — सवर्णदीर्घः।

प्र.45(ङ) गिरि + ईशः = ………..
उत्तर

गिरीशः।

गिरि + ईशः → इ + ई = ई → गिरीशः

[हिन्दी अर्थ — पर्वत के स्वामी (शिव)।] सन्धिः — सवर्णदीर्घः।

प्र.46(च) वेद + अलङ्कारः = ………..
उत्तर

वेदालङ्कारः।

वेद + अलङ्कारः → अ + अ = आ → वेदालङ्कारः

[हिन्दी अर्थ — वेद का अलंकार / एक उपाधि।] सन्धिः — सवर्णदीर्घः।

प्र.47(छ) दैत्य + अरिः = ………..
उत्तर

दैत्यारिः।

दैत्य + अरिः → अ + अ = आ → दैत्यारिः

[हिन्दी अर्थ — दैत्यों का शत्रु (विष्णु)।] सन्धिः — सवर्णदीर्घः।

प्र.48(ज) सु + उक्तिः = ………..
उत्तर

सूक्तिः।

सु + उक्तिः → उ + उ = ऊ → सूक्तिः

[हिन्दी अर्थ — सुन्दर कथन, सूक्ति।] सन्धिः — सवर्णदीर्घः।

वयम् अभ्यासं कुर्मः — पृष्ठ 134–135७. उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्तयन्तु

अभ्यासः
प्र.49(क) उदयसिंहः वीरः आसीत्। [यथा – पन्नाधाया राज्यम् अरक्षत्। – पन्नाधाया राज्यं रक्षति।]
उत्तर

उदयसिंहः वीरः अस्ति।

[हिन्दी अर्थ — उदयसिंह वीर है।]

आसीत् (लङ्, भूतकालः) → अस्ति (लट्, वर्तमानकालः)
प्र.50(ख) अहं तत् सर्वम् अपश्यम्।
उत्तर

अहं तत् सर्वं पश्यामि।

[हिन्दी अर्थ — मैं वह सब देखता हूँ।]

अपश्यम् (उत्तमपुरुषः, एकवचनम्, लङ्) → पश्यामि (लट्)
प्र.51(ग) बनवीरः कुतन्त्रम् अकरोत्।
उत्तर

बनवीरः कुतन्त्रं करोति।

[हिन्दी अर्थ — बनवीर षड्यन्त्र करता है।]

अकरोत् (कृ धातुः, लङ्) → करोति (लट्)
प्र.52(घ) त्वं शयनस्थानम् अगच्छः।
उत्तर

त्वं शयनस्थानं गच्छसि।

[हिन्दी अर्थ — तुम सोने के स्थान पर जाते हो।]

अगच्छः (मध्यमपुरुषः, एकवचनम्, लङ्) → गच्छसि (लट्)
प्र.53(ङ) ते कथाम् अपठन्।
उत्तर

ते कथां पठन्ति।

[हिन्दी अर्थ — वे सब कथा पढ़ते हैं।]

अपठन् (प्रथमपुरुषः, बहुवचनम्, लङ्) → पठन्ति (लट्)
प्र.54(च) धात्री उदयसिंहम् अपृच्छत्।
उत्तर

धात्री उदयसिंहं पृच्छति।

[हिन्दी अर्थ — धाय उदयसिंह से पूछती है।]

अपृच्छत् (प्रथमपुरुषः, एकवचनम्, लङ्) → पृच्छति (लट्)
प्र.55(छ) वयं शूराः अभवाम।
उत्तर

वयं शूराः भवामः।

[हिन्दी अर्थ — हम सब शूर होते हैं।]

अभवाम (उत्तमपुरुषः, बहुवचनम्, लङ्) → भवामः (लट्)

योग्यताविस्तरः — पृष्ठ 135–136ज्ञानविस्तारः — क्तवतु-प्रत्ययः, राज्यस्य सप्त अङ्गानि, व्यूहरचना

योग्यताविस्तरः
प्र.56१. सामान्यतः भूतकाले लङ्-लकारस्य स्थाने क्तवतुप्रत्ययान्त-पदस्य प्रयोगः क्रियते। (धातुः / लट्-लकारः / लङ्-लकारः / क्तवतु-प्रत्ययान्त-पदम् — पुंलिङ्गं स्त्रीलिङ्गं च)
उत्तर

भूतकालं वक्तुं द्वौ मार्गौ स्तः — लङ्-लकारः (सः अपठत्) अथवा क्तवतु-प्रत्ययान्तं पदम् (सः पाठं पठितवान्)। द्वयोः अर्थः समानः।

[हिन्दी अर्थ — भूतकाल दो प्रकार से कहा जा सकता है — लङ्-लकार से या ‘क्तवतु’ प्रत्यय से बने पद से। स्त्रीलिङ्ग में ‘-वती’ और पुंलिङ्ग में ‘-वान्’ लगता है।]

धातुःलट्-लकारः (वर्तमानकालः)लङ्-लकारः (भूतकालः)क्तवतु-प्रत्ययान्त-पदम् (पुंलिङ्गं / स्त्रीलिङ्गम्)
पठ्पठतिअपठत्पठितवान् / पठितवती
लिख्लिखतिअलिखत्लिखितवान् / लिखितवती
खाद्खादतिअखादत्खादितवान् / खादितवती
पिब् (पा)पिबतिअपिबत्पीतवान् / पीतवती
रक्ष्रक्षतिअरक्षत्रक्षितवान् / रक्षितवती
कृकरोतिअकरोत्कृतवान् / कृतवती
भूभवतिअभवत्भूतवान् / भूतवती
मिल्मिलतिअमिलत्मिलितवान् / मिलितवती
चल्चलतिअचलत्चलितवान् / चलितवती
गच्छ् (गम्)गच्छतिअगच्छत्गतवान् / गतवती
नय् (नी)नयतिअनयत्नीतवान् / नीतवती
स्मर् (स्मृ)स्मरतिअस्मरत्स्मृतवान् / स्मृतवती
त्यज्त्यजतिअत्यजत्त्यक्तवान् / त्यक्तवती
पृच्छ् (प्रच्छ्)पृच्छतिअपृच्छत्पृष्टवान् / पृष्टवती
तिष्ठ् (स्था)तिष्ठतिअतिष्ठत्स्थितवान् / स्थितवती
पश्य् (दृश्)पश्यतिअपश्यत्दृष्टवान् / दृष्टवती
क्रीड्क्रीडतिअक्रीडत्क्रीडितवान् / क्रीडितवती
प्र.57२. राज्यस्य सप्त अङ्गानि भवन्ति — १. स्वामी २. अमात्यः ३. सुहृत् ४. कोषः ५. राष्ट्रम् ६. दुर्गम् ७. बलम्। एतानि सुदृढानि चेत् राष्ट्रं सुदृढं भवति।
उत्तर

राज्यस्य सप्त अङ्गानि (सप्ताङ्गानि / प्रकृतयः) — एतानि सुदृढानि चेत् राष्ट्रं सुदृढं भवति।

अङ्गम्अर्थः (संस्कृतम्)हिन्दी अर्थ
१. स्वामीराजा, शासकःराजा / शासक
२. अमात्यःमन्त्री, सचिवःमन्त्री, अमात्य
३. सुहृत्मित्रराज्यम्मित्र-राज्य
४. कोषःधनसञ्चयःखज़ाना
५. राष्ट्रम्जनपदः, प्रजा भूमिः चजनपद, भूमि और प्रजा
६. दुर्गम्प्राकारयुक्तं रक्षास्थानम्किला
७. बलम्सेनासेना
प्र.58३. प्राचीनकाले युद्धेषु विविधव्यूहानां रचना क्रियते स्म — यथा – चक्रव्यूहः, गरुडव्यूहः, सर्पव्यूहः, मकरव्यूहः, अर्धचन्द्रव्यूहः, मण्डलव्यूहः, ओरमीव्यूहः, क्रौञ्चव्यूहः, वज्रव्यूहः च इत्यादयः व्यूहाः।
उत्तर

व्यूहः = युद्धे सेनायाः विशिष्टा रचना (सैन्य-संरचना), यया शत्रुः वञ्च्यते रक्षा च दृढा भवति। पुस्तके षट् चित्राणि (नाम-रहितानि) सन्ति — तेषु गरुडव्यूहः (पक्षि-आकारः), चक्रव्यूहः (वलयाः), सर्पव्यूहः (वक्रा पङ्क्तिः), अर्धचन्द्रव्यूहः च स्पष्टं ज्ञायन्ते; अन्ये द्वे चतुष्कोण-आकारके रचने स्तः।

व्यूहःआकारःहिन्दी परिचय
चक्रव्यूहःचक्राकारः, बहुवलयःपहिये के समान गोल घेरे — महाभारत में अभिमन्यु इसी में घिरे थे
गरुडव्यूहःगरुडपक्षिणः आकारःगरुड़ के आकार का — मुख पर प्रमुख योद्धा, पंखों पर सेना
सर्पव्यूहःसर्पवत् वक्रा पङ्क्तिःसाँप जैसी टेढ़ी लम्बी पंक्ति
मकरव्यूहःमकरस्य (मगरस्य) आकारःमगरमच्छ के आकार की रचना
अर्धचन्द्रव्यूहःअर्धचन्द्राकारःआधे चाँद जैसी — शत्रु को दोनों छोरों से घेरने के लिए
मण्डलव्यूहःवर्तुलाकारःगोलाकार घेरा
वज्रव्यूहःवज्रस्य आकारःवज्र के आकार की, अत्यन्त दृढ़ रचना
क्रौञ्चव्यूहःक्रौञ्चपक्षिणः आकारःक्रौंच पक्षी के आकार की
ओरमीव्यूहःऊर्मि-वत् (तरङ्ग-वत्)नाम से ‘ऊर्मि’ (लहर) जैसी रचना प्रतीत होती है

परियोजनाकार्यम् — पृष्ठ 136वीराङ्गनानां चित्रसङ्ग्रहः तथा पराक्रम-वर्णनम्

परियोजनाकार्यम्
प्र.59भारतीयानां वीराङ्गनानां चित्राणि संगृह्य तासां पराक्रमं सारांशरूपेण स्वभाषया लिखन्तु। यथा – लक्ष्मीबाई, पद्मावती, कित्तूरुराणी, चन्नम्मा, रुद्रम्मादेवी, झलकारी, रानीहाडी चेत्यादीनाम्।
उत्तर
वीराङ्गनाकालः / प्रदेशःपराक्रमः (सारांशः)
रानी लक्ष्मीबाई1828–1858 / झाँसी1857 के स्वतन्त्रता-संग्राम में अंग्रेज़ों से लड़ीं। पीठ पर दामोदर को बाँधकर घोड़े पर युद्ध किया और ग्वालियर में वीरगति पाई। — सा अद्भुता योद्धा आसीत्।
रानी पद्मावती13वीं–14वीं शती / चित्तौड़परम्परा के अनुसार चित्तौड़ की रानी; अलाउद्दीन के आक्रमण (1303) के समय आत्मसम्मान की रक्षा के लिए जौहर किया। त्याग और स्वाभिमान की प्रतीक।
कित्तूर रानी चन्नम्मा1778–1829 / कर्नाटक1824 में, जब ईस्ट इंडिया कम्पनी ने उनके दत्तक पुत्र को उत्तराधिकारी मानने से मना किया, तब अंग्रेज़ों से सशस्त्र युद्ध किया — रानी लक्ष्मीबाई से भी पहले।
रुद्रम्मादेवी13वीं शती / काकतीय, वारंगलदक्षिण भारत की विरली शासिका; पुरुष-वेश में सेना का नेतृत्व कर राज्य की रक्षा की।
झलकारीबाई19वीं शती (जन्म 1830) / झाँसीलक्ष्मीबाई की सेना ‘दुर्गा दल’ की सेनानायिका; रानी का वेश धारण कर शत्रु को भ्रमित किया जिससे रानी सुरक्षित निकल सकीं।
रानी हाडी17वीं शती / बूँदी–सलूम्बरपति को युद्ध में निःशंक भेजने के लिए अपना शीश ही भेंट कर दिया — कर्तव्य के आगे मोह को त्यागने का उदाहरण।
पन्नाधाया16वीं शती / मेवाडउदयसिंह की रक्षा हेतु अपने पुत्र चन्दन का बलिदान किया। — व्यक्तिहितं न, राष्ट्रहितम् एव श्रेष्ठम्।

Chapter 12 of 13 – Sanskrit

Also for This Chapter

NCERT Solutions Class 7 Sanskrit Chapter 12 Virangana Pannadhaya – Overview

ClassClass 7
SubjectSanskrit
Chapter12 – Virangana Pannadhaya
Session2027
FormatFull answers on this page + PDF

NCERT Solutions Class 7 Sanskrit Chapter 12 – FAQs

Where can I download NCERT Solutions Class 7 Sanskrit Chapter 12 Virangana Pannadhaya PDF?

Read every answer on this page, or download the free PDF from the table at the top.

Is this for the 2027 session?

Yes, it follows the latest NCERT Class 7 Sanskrit book for 2027.

How many questions are solved in NCERT Class 7 Sanskrit Chapter 12?

All questions of the chapter – the in-text questions, activities and the end-of-chapter exercises.

How should I use these solutions?

Read the chapter in the NCERT book first, attempt the questions yourself, then check your answers here.

Official website: ncert.nic.inNational Council of Educational Research and Training publishes date sheets, admit cards and results here
Visit

Ask a question

?

Loading comments…