Skip to content

NCERT Solutions for Class 7 Sanskrit Chapter 10 Dashamah Kah (PDF) – 2027

NCERT Solutions for Class 7 Sanskrit Chapter 10 Dashamah Kah – step-by-step answers to every exercise and in-text question of the chapter, as per the latest NCERT syllabus for 2027. Read them online or download the free question-answer PDF.

दशमः कः ? कक्षा ७ की संस्कृत पाठ्यपुस्तक दीपकम् का दशमः पाठः है। यह एक हास्यपूर्ण कथा है जो पूरणवाचक (क्रमसूचक) संख्या-शब्दों — प्रथमः, द्वितीयः … दशमः — का अभ्यास कराती है। पाठ का आरम्भ चित्र-संवाद से होता है और फिर दस बालकों की वह कथा आती है जिसमें गिनने वाला बालक स्वयं को ही गिनना भूल जाता है।

NCERT Solutions for Class 7 Sanskrit Chapter 10 Dashamah Kah PDF

All the answers are on this page below. The PDF also explains every answer – why it is right and how to check it – so download it for revision.

PDFChapterDownload
Solutions PDFDashamah KahView PDF

पाठ का हिंदी अनुवाद

भाग १ — कक्षा में संवाद (चित्रकथा)
अध्यापकः — अयि भोः! गतसप्ताहे संस्कृत-ओलम्पियाड्-परीक्षा अभवत्। तत्र के भागं गृहीतवन्तः ?
अध्यापक — अरे बच्चो! पिछले सप्ताह संस्कृत-ओलम्पियाड-परीक्षा हुई थी। उसमें किन-किन ने भाग लिया?
छात्राः — महोदय ! वयं सर्वे भागं गृहीतवन्तः।
छात्र (सब) — महोदय! हम सबने भाग लिया।
अध्यापकः — तत्र कः प्रथमं स्थानं प्राप्तवान् ?
अध्यापक — उसमें प्रथम स्थान किसने प्राप्त किया?
छात्रः — महोदय ! विद्याधरः प्रथमं स्थानं प्राप्तवान्।
छात्र — महोदय! विद्याधर ने प्रथम स्थान प्राप्त किया।
अध्यापकः — अभिनन्दनम्। अभिनन्दनम्। तर्हि द्वितीयः कः ?
अध्यापक — बधाई हो! बधाई हो! तो दूसरे स्थान पर कौन है?
छात्रः — महोदय ! सा प्रीतिः।
छात्र — महोदय! वह प्रीति है।
अध्यापकः — अरे ! बहु सुन्दरम्। तस्याः अपि अभिनन्दनम्। तर्हि तृतीये स्थाने कः का वा अस्ति ?
अध्यापक — अरे! बहुत सुंदर। उसे भी बधाई। तो तीसरे स्थान पर कौन (छात्र) या कौन (छात्रा) है?
छात्रः — महोदय ! तृतीयं स्थानं हेमलता प्राप्तवती।
छात्र — महोदय! तीसरा स्थान हेमलता ने प्राप्त किया।
अध्यापकः — अस्तु तस्याः अपि अभिनन्दनम्। अन्ये केऽपि किमपि स्थानं प्राप्तवन्तः किम् ?
अध्यापक — ठीक है, उसे भी बधाई। क्या दूसरे किसी ने भी कोई स्थान प्राप्त किया?
छात्रा — महोदय ! अहं पञ्चमी अस्मि।
छात्रा — महोदय! मैं पाँचवीं हूँ।
छात्रः — महोदय ! अहं चतुर्थः अस्मि।
छात्र — महोदय! मैं चौथा हूँ।
छात्रा — महोदय ! अहं नवमी अस्मि।
छात्रा — महोदय! मैं नौवीं हूँ।
अध्यापकः — अहो उत्तमम्। भवद्भ्यः सर्वेभ्यः आशीर्वादाः। तर्हि दशमः कोऽस्ति भोः ?
अध्यापक — वाह, बहुत अच्छा! आप सबको आशीर्वाद। तो भई, दसवाँ कौन है?
छात्राः — दशमस्य विषये वयं न जानीमः श्रीमन् !
छात्र (सब) — श्रीमान्! दसवें के बारे में हम नहीं जानते।
अध्यापकः — चिन्ता मास्तु, वयम् अद्य दशमस्य विषये एकां कथां पठामः।
अध्यापक — चिंता मत करो, आज हम दसवें के विषय में एक कथा पढ़ते हैं।
भाग २ — दशम की कथा
एकदा दश बालकाः स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानम् अकुर्वन्।
एक बार दस बालक नहाने के लिए नदी पर गए। उन्होंने नदी के जल में देर तक स्नान किया।
ततः ते तीर्त्वा पारं गताः। तदा तेषां नायकः अपृच्छत् – अपि सर्वे बालकाः नदीम् उत्तीर्णाः ?
फिर वे तैरकर (नदी के) पार चले गए। तब उनके नायक (मुखिया) ने पूछा – क्या सभी बालक नदी के पार आ गए हैं?
तदा कश्चित् बालकः सर्वान् पङ्क्तौ स्थापयित्वा अगणयत् – एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव इति। सः आत्मानं न अगणयत्।
तब किसी एक बालक ने सबको पंक्ति में खड़ा करके गिना – एक, दो, तीन, चार, पाँच, छह, सात, आठ, नौ। उसने स्वयं को नहीं गिना।
अतः सः अवदत् – अरे वयं नव एव स्मः भोः ! दशमः नास्ति।
इसलिए वह बोला – अरे भाई! हम तो नौ ही हैं! दसवाँ नहीं है।
अपरः अपि बालकः पुनः आत्मानं त्यक्त्वा अन्यान् बालकान् अगणयत्। तदा अपि नव एव आसन्।
दूसरे बालक ने भी फिर से स्वयं को छोड़कर बाकी बालकों को गिना। तब भी नौ ही थे।
अतः ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः। ते विषण्णाः तूष्णीम् अतिष्ठन्।
इसलिए उन्होंने निश्चय कर लिया कि दसवाँ बालक नदी में डूब गया है। वे दुःखी होकर चुपचाप खड़े रहे।
तदा कश्चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् – अयि बालकाः ! युष्माकं दुःखस्य कारणं किम् ?
तभी कोई यात्री वहाँ आया। उन बालकों को दुःखी देखकर उसने पूछा – अरे बालको! तुम्हारे दुःख का कारण क्या है?
बालकानां नायकः अकथयत् “वयं दश बालकाः स्नातुम् आगताः। इदानीं नव एव स्मः। एकः नद्यां मग्नः” इति।
बालकों के नायक ने कहा – “हम दस बालक नहाने आए थे। अब नौ ही हैं। एक नदी में डूब गया।”
पथिकः तान् अगणयत्। तत्र दश बालकाः तु आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय।
यात्री ने उन्हें गिना। वहाँ तो दस बालक थे। उसने नायक को आदेश दिया – तुम बालकों को गिनो।
सः नव बालकान् एव अगणयत्। तदा पथिकः अवदत् – दशमः त्वम् असि इति।
उसने नौ बालकों को ही गिना। तब यात्री बोला – दसवाँ तुम हो।
तत् श्रुत्वा सर्वे प्रहृष्टाः भूत्वा अकथयन् – दशमः प्राप्तः दशमः प्राप्तः इति। ततः सर्वे मिलित्वा आनन्देन गृहम् अगच्छन्।
यह सुनकर सब प्रसन्न होकर बोले – दसवाँ मिल गया, दसवाँ मिल गया! फिर सब मिलकर आनंद से घर चले गए।

NCERT Solutions for Class 7 Sanskrit Chapter 10 Dashamah Kah – Questions and Answers

All questions of the chapter are answered below, in the order of the book – in-text questions, activities and the end-of-chapter exercises. Each answer is written the way you would write it in the exam.

पाठ्य-प्रश्नाः (चित्र-संवादः) — पृष्ठ 104दशमः पाठः — दशमः कः ?

संवादः
प्र.1अयि भोः ! गतसप्ताहे संस्कृत-ओलम्पियाड्-परीक्षा अभवत्। तत्र के भागं गृहीतवन्तः ?
उत्तर

महोदय ! वयं सर्वे भागं गृहीतवन्तः।

प्र.2तत्र कः प्रथमं स्थानं प्राप्तवान् ?
उत्तर

महोदय ! विद्याधरः प्रथमं स्थानं प्राप्तवान्।

प्र.3अभिनन्दनम्। अभिनन्दनम्। तर्हि द्वितीयः कः ?
उत्तर

महोदय ! सा प्रीतिः। अर्थात् — प्रीतिः द्वितीयं स्थानं प्राप्तवती।

प्र.4अरे ! बहु सुन्दरम्। तस्याः अपि अभिनन्दनम्। तर्हि तृतीये स्थाने कः का वा अस्ति ?
उत्तर

महोदय ! तृतीयं स्थानं हेमलता प्राप्तवती।

पाठ्य-प्रश्नाः (चित्र-संवादः) — पृष्ठ 105दशमः पाठः — दशमः कः ?

संवादः
प्र.1अस्तु तस्याः अपि अभिनन्दनम्। अन्ये केऽपि किमपि स्थानं प्राप्तवन्तः किम् ?
उत्तर

आम्, अन्येऽपि छात्राः स्थानानि प्राप्तवन्तः —

  • महोदय ! अहं चतुर्थः अस्मि। (एकः छात्रः चतुर्थं स्थानं प्राप्तवान्।)
  • महोदय ! अहं पञ्चमी अस्मि। (एका छात्रा पञ्चमं स्थानं प्राप्तवती।)
  • महोदय ! अहं नवमी अस्मि। (एका छात्रा नवमं स्थानं प्राप्तवती।)
प्र.2अहो उत्तमम्। भवद्भ्यः सर्वेभ्यः आशीर्वादाः। तर्हि दशमः कोऽस्ति भोः ?
उत्तर

छात्राः अवदन् — ‘दशमस्य विषये वयं न जानीमः श्रीमन् !’ (दशमं स्थानं कोऽपि न प्राप्तवान्।) तदा अध्यापकः अवदत् — ‘चिन्ता मास्तु, वयम् अद्य दशमस्य विषये एकां कथां पठामः।’

वयं शब्दार्थान् जानीमः — पृष्ठ 108शब्दार्थ-सारिणी

शब्दार्थाः
प्र.1वयं शब्दार्थान् जानीमः — सारिण्याम् अन्तिमे स्तम्भे मातृभाषया अर्थं लिखन्तु।
शब्दःअर्थःहिन्दीEnglishमातृभाषया अर्थं लिखन्तु
तीर्त्वासन्तरणं कृत्वातैरकरHaving Swum 
स्नानायस्नाननिमित्तम्नहाने के लिएFor bathing 
चिरम्बहुकालपर्यन्तम्देर तकFor a long time 
उत्तीर्णाःपारं गताःपार हुएCrossed over 
अपरःअन्यःदूसराAnother 
स्वम्आत्मानम्स्वयं कोOneself 
मग्नःविलीनःडूब गयाDrowned 
विषण्णाःखिन्नाःदुःखी हुएSaddened 
तूष्णीम्निःशब्दम्मौनSilent 
पथिकःमार्गगन्तायात्रीTraveller 
अगणयत्गणनां कृतवान्गिनाCounted 
प्रहृष्टाःआनन्दिताःप्रसन्नDelighted 
कतमःकियत्-संख्यात्मकःकौन-साWhich one 
उत्तर

अन्तिम स्तम्भ में मातृभाषा (हिन्दी) में अर्थ —

शब्दःमातृभाषया अर्थः (हिन्दी)
तीर्त्वातैरकर
स्नानायनहाने के लिए
चिरम्देर तक
उत्तीर्णाःपार हुए
अपरःदूसरा
स्वम्स्वयं को
मग्नःडूब गया
विषण्णाःदुःखी हुए
तूष्णीम्मौन (चुपचाप)
पथिकःयात्री, राहगीर
अगणयत्गिना
प्रहृष्टाःप्रसन्न
कतमःकौन-सा

अत्र इदम् अवधेयम् — पृष्ठ 108भाषिकतत्त्वम् — पूरणवाचकशब्दाः

व्याकरणम्
प्र.1संख्यावाचक-शब्दानां पूरणार्थे ‘प्रथमः’, ‘द्वितीयः’, ‘तृतीयः’ इत्यादिशब्दाः भवन्ति। यथा — एकम् → पूरणार्थे = प्रथमः / प्रथमा / प्रथमम्। द्वे → पूरणार्थे = द्वितीयः / द्वितीया / द्वितीयम्। त्रीणि → पूरणार्थे = तृतीयः / तृतीया / तृतीयम् इत्यादयः।
उत्तर

संख्येयशब्द (एकम्, द्वे, त्रीणि …) बताते हैं कितने; पूरणशब्द (प्रथमः, द्वितीयः, तृतीयः …) बताते हैं कौन-से क्रम पर। पूरणशब्द विशेषण हैं, इसलिए तीनों लिङ्गों में इनके रूप बनते हैं —

एकम् (१) → प्रथमः / प्रथमा / प्रथमम्
द्वे (२) → द्वितीयः / द्वितीया / द्वितीयम्
त्रीणि (३) → तृतीयः / तृतीया / तृतीयम्
चत्वारि (४) → चतुर्थः / चतुर्थी / चतुर्थम्
पञ्च (५) → पञ्चमः / पञ्चमी / पञ्चमम्
… दश (१०) → दशमः / दशमी / दशमम्

वयम् अभ्यासं कुर्मः — प्रश्नः १ — पृष्ठ 108–109कोष्ठकात् समीचीनम् उत्तरं चित्वा लिखन्तु

अभ्यासः
प्र.1कति बालकाः स्नातुं गताः ? (पञ्च, द्वादश, दश)
उत्तर

दश बालकाः स्नातुं गताः।

पाठे उक्तम् — ‘एकदा दश बालकाः स्नानाय नदीम् अगच्छन्।’
अतः समीचीनम् उत्तरम् = दश
प्र.2कतमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन् ? (प्रथमः, दशमः, पञ्चमः)
उत्तर

दशमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन्।

पाठे — ‘अतः ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।’
समीचीनम् उत्तरम् = दशमः
प्र.3दशमः कः आसीत् ? (नायकः, पथिकः, नदी)
उत्तर

दशमः नायकः आसीत्।

पथिकः नायकम् अवदत् — ‘दशमः त्वम् असि’ इति।
अतः समीचीनम् उत्तरम् = नायकः
प्र.4कः सम्यक् रूपेण बालकान् गणितवान् ? (नायकः, पथिकः, बालकः)
उत्तर

पथिकः सम्यक् रूपेण बालकान् गणितवान्।

पाठे — ‘पथिकः तान् अगणयत्। तत्र दश बालकाः तु आसन्।’
समीचीनम् उत्तरम् = पथिकः
प्र.5बालकाः कां तीर्त्वा पारं गताः ? (पुष्करिणीम्, समुद्रम्, नदीम्)
उत्तर

बालकाः नदीं तीर्त्वा पारं गताः।

प्रश्ने ‘काम्’ = स्त्रीलिङ्गम्, द्वितीया विभक्तिः, एकवचनम्।
अतः उत्तरम् अपि द्वितीयायाम् — नदीम् (नदी + द्वितीया एकवचनम्)।

वयम् अभ्यासं कुर्मः — प्रश्नः २ — पृष्ठ 109पाठस्य आधारेण एकवाक्येन प्रश्नानाम् उत्तराणि लिखन्तु

अभ्यासः
प्र.1दश बालकाः किमर्थं नदीम् अगच्छन् ?
उत्तर

दश बालकाः स्नानाय नदीम् अगच्छन्।

प्र.2नायकः किम् अपृच्छत् ?
उत्तर

नायकः अपृच्छत् — ‘अपि सर्वे बालकाः नदीम् उत्तीर्णाः ?’ इति।

प्र.3बालकाः स्नानाय कुत्र अगच्छन् ?
उत्तर

बालकाः स्नानाय नदीम् अगच्छन्।

प्र.4बालकाः किं निश्चयम् अकुर्वन् ?
उत्तर

बालकाः निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।

प्र.5बालकाः कथं गृहम् अगच्छन् ?
उत्तर

बालकाः सर्वे मिलित्वा आनन्देन गृहम् अगच्छन्।

वयम् अभ्यासं कुर्मः — प्रश्नः ३ — पृष्ठ 109पट्टिकातः उचितं विशेषणपदं योजयित्वा वाक्यानि रचयन्तु (अङ्गुलयः)

अभ्यासः
प्र.1

अङ्गुलयः (चित्रे हस्तः; अङ्गुलीषु क्रमसंख्या नाम च लिखितम्) —

१. अङ्गुष्ठः२. तर्जनी३. मध्यमा४. अनामिका५. कनिष्ठिका

पट्टिका — प्रथमा  |  द्वितीया  |  तृतीया  |  चतुर्थी  |  पञ्चमी

(क) करे …………………….. अङ्गुलिः भवति तर्जनी।

उत्तर

करे द्वितीया अङ्गुलिः भवति तर्जनी।

चित्रे — १. अङ्गुष्ठः, २. तर्जनी, ३. मध्यमा, ४. अनामिका, ५. कनिष्ठिका।
‘अङ्गुलिः’ स्त्रीलिङ्गम् अस्ति → विशेषणम् अपि स्त्रीलिङ्गे = द्वितीया।
प्र.2अनामिका …………………….. अङ्गुलिः भवति।
उत्तर

अनामिका चतुर्थी अङ्गुलिः भवति।

चित्रानुसारम् — अङ्गुष्ठः (१) → तर्जनी (२) → मध्यमा (३) → अनामिका (४) → कनिष्ठिका (५)।
प्र.3करे …………………….. अङ्गुलिः भवति अङ्गुष्ठः।
उत्तर

करे प्रथमा अङ्गुलिः भवति अङ्गुष्ठः।

(हिन्दी अर्थ — हाथ में पहली उँगली अंगूठा होती है।)

क्रमः — १. अङ्गुष्ठः, २. तर्जनी, ३. मध्यमा, ४. अनामिका, ५. कनिष्ठिका।
विशेषणम् = प्रथमा (‘अङ्गुलिः’ इति स्त्रीलिङ्गपदस्य विशेषणम्)।
प्र.4कनिष्ठिका …………………….. अङ्गुलिः भवति।
उत्तर

कनिष्ठिका पञ्चमी अङ्गुलिः भवति।

कनिष्ठिका = सर्वेभ्यः कनिष्ठा (सबसे छोटी) अङ्गुलिः → क्रमे पञ्चमी।
प्र.5करे …………………….. अङ्गुलिः भवति मध्यमा।
उत्तर

करे तृतीया अङ्गुलिः भवति मध्यमा।

मध्यमा = मध्ये स्थिता अङ्गुलिः → पञ्चसु अङ्गुलिषु ठीक बीच में = तृतीया।

वयम् अभ्यासं कुर्मः — प्रश्नः ४ — पृष्ठ 110पट्टिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु (सप्ताहः)

अभ्यासः
प्र.1

पट्टिका — सप्ताहः

प्रथमः दिवसःरविवासरः
द्वितीयः दिवसःसोमवासरः
तृतीयः दिवसःमङ्गलवासरः
चतुर्थः दिवसःबुधवासरः
पञ्चमः दिवसःगुरुवासरः
षष्ठः दिवसःशुक्रवासरः
सप्तमः दिवसःशनिवासरः

(क) सप्ताहस्य प्रथमः दिवसः कः ?

उत्तर

सप्ताहस्य प्रथमः दिवसः रविवासरः (अस्ति)।

(हिन्दी अर्थ — सप्ताह का पहला दिन रविवार है।)

पट्टिकायाम् — प्रथमः दिवसः – रविवासरः
सप्ताहस्य = सप्ताह + षष्ठी विभक्तिः, एकवचनम् (सम्बन्धे षष्ठी)।
प्र.2सप्ताहस्य कतमः दिवसः रविवासरः अस्ति ?
उत्तर

सप्ताहस्य प्रथमः दिवसः रविवासरः अस्ति।

‘कतमः’ पृच्छति — कौन-सा / कितने वें क्रम पर।
अतः उत्तरं पूरणवाचकपदेन एव — प्रथमः।
प्र.3सप्ताहस्य षष्ठः दिवसः कः ?
उत्तर

सप्ताहस्य षष्ठः दिवसः शुक्रवासरः (अस्ति)।

(हिन्दी अर्थ — सप्ताह का छठा दिन शुक्रवार है।)

रविवासरः (१) → सोमवासरः (२) → मङ्गलवासरः (३) → बुधवासरः (४) → गुरुवासरः (५) → शुक्रवासरः (६) → शनिवासरः (७)
प्र.4सप्ताहस्य कतमः दिवसः शनिवासरः अस्ति ?
उत्तर

सप्ताहस्य सप्तमः दिवसः शनिवासरः अस्ति।

(हिन्दी अर्थ — सप्ताह का सातवाँ दिन शनिवार है।)

पट्टिकायाम् — सप्तमः दिवसः – शनिवासरः
सप्तमः = पुंलिङ्गम्, प्रथमा विभक्तिः, एकवचनम् (‘दिवसः’ इति पुंलिङ्गपदस्य विशेषणम्)।
प्र.5सप्ताहस्य अन्तिमः दिवसः कः अस्ति ?
उत्तर

सप्ताहस्य अन्तिमः दिवसः शनिवासरः अस्ति।

वयम् अभ्यासं कुर्मः — प्रश्नः ५ — पृष्ठ 110–111वाटिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु (भारतीय-द्वादशमासाः)

अभ्यासः
प्र.1

वाटिका — भारतीय-द्वादशमासाः (चित्रे द्वादश पुष्पाणि, प्रत्येकस्मिन् एकस्य मासस्य नाम; क्रमसंख्या न लिखिता)

चैत्रःवैशाखःज्येष्ठःआषाढःश्रावणःभाद्रपदः
आश्विनःकार्तिकःमार्गशीर्षःपौषःमाघःफाल्गुनः

(क) मासेषु पञ्चमः मासः कः ?

उत्तर

मासेषु पञ्चमः मासः श्रावणः (अस्ति)।

चैत्रः (१) → वैशाखः (२) → ज्येष्ठः (३) → आषाढः (४) → श्रावणः (५) → भाद्रपदः (६)
प्र.2मार्गशीर्षः कतमः मासः अस्ति ?
उत्तर

मार्गशीर्षः नवमः मासः अस्ति।

आश्विनः (७) → कार्त्तिकः (८) → मार्गशीर्षः (९) → पौषः (१०)
प्र.3मासेषु दशमः मासः कः ?
उत्तर

मासेषु दशमः मासः पौषः (अस्ति)।

(हिन्दी अर्थ — महीनों में दसवाँ महीना पौष है।)

मासेषु = मास + सप्तमी विभक्तिः, बहुवचनम् (निर्धारणे सप्तमी)।
क्रमः — … मार्गशीर्षः (९) → पौषः (१०) → माघः (११) → फाल्गुनः (१२)
प्र.4कार्त्तिकः कतमः मासः अस्ति ?
उत्तर

कार्त्तिकः अष्टमः मासः अस्ति।

(हिन्दी अर्थ — कार्तिक आठवाँ महीना है।)

भाद्रपदः (६) → आश्विनः (७) → कार्त्तिकः (८)
प्र.5मासेषु अन्तिमः मासः कः ?
उत्तर

मासेषु अन्तिमः मासः फाल्गुनः (अस्ति)।

वयम् अभ्यासं कुर्मः — प्रश्नः ६ — पृष्ठ 111मञ्जूषां पश्यन्तु, उत्तरं लिखन्तु (आङ्ग्लमासाः)

अभ्यासः
प्र.1

मञ्जूषा — आङ्ग्लमासाः

जनवरी-मासःफरवरी-मासःमार्च-मासःअप्रैल-मासःमै-मासःजून-मासः
जुलै-मासःअगस्त-मासःसितम्बर-मासःअक्तूबर-मासःनवम्बर-मासःदिसम्बर-मासः

(क) आङ्ग्लमासेषु दशमः मासः …………………………

उत्तर

आङ्ग्लमासेषु दशमः मासः अक्तूबर-मासः (अस्ति)।

(हिन्दी अर्थ — अंग्रेज़ी महीनों में दसवाँ महीना अक्तूबर है।)

जनवरी (१) फरवरी (२) मार्च (३) अप्रैल (४) मै (५) जून (६)
जुलै (७) अगस्त (८) सितम्बर (९) अक्तूबर (१०) नवम्बर (११) दिसम्बर (१२)
प्र.2फरवरीमासः ……………………… मासः अस्ति।
उत्तर

फरवरीमासः द्वितीयः मासः अस्ति।

(हिन्दी अर्थ — फरवरी दूसरा महीना है।)

जनवरी-मासः (१) → फरवरी-मासः (२)
‘मासः’ पुंलिङ्गम् → विशेषणम् द्वितीयः (पुंलिङ्गे)।
प्र.3आङ्ग्लमासेषु अष्टमः मासः …………………………
उत्तर

आङ्ग्लमासेषु अष्टमः मासः अगस्त-मासः (अस्ति)।

(हिन्दी अर्थ — अंग्रेज़ी महीनों में आठवाँ महीना अगस्त है।)

जून (६) → जुलै (७) → अगस्त (८)
प्र.4सितम्बरमासः …………………… मासः अस्ति।
उत्तर

सितम्बरमासः नवमः मासः अस्ति।

(हिन्दी अर्थ — सितम्बर नौवाँ महीना है।)

अगस्त (८) → सितम्बर (९) → अक्तूबर (१०)
प्र.5आङ्ग्लमासेषु अन्तिमः मासः ………………………………
उत्तर

आङ्ग्लमासेषु अन्तिमः मासः दिसम्बर-मासः (अस्ति)।

वयम् अभ्यासं कुर्मः — प्रश्नः ७ — पृष्ठ 111अधोलिखिते गद्यांशे अङ्कानां स्थाने संख्यावाचकशब्दान् लिखन्तु

अभ्यासः
प्र.1यथा – ………………………… (१) पाठशाला – एका पाठशाला

………………………… (१) पाठशाला अस्ति। तत्र ………………………… (३) अध्यापकाः सन्ति। साहित्यकक्षायां ………………………… (२०) छात्राः सन्ति। एकस्मिन् दिने ………………………… (१) निरीक्षकः आगतवान्। तस्मिन् दिने साहित्यकक्षायां ………………………… (१५) छात्राः उपस्थिताः। ………………………… (५) अनुपस्थिताः। निरीक्षकः ………………………… (१०) शब्दान् लेखितुम् उक्तवान्। ………………………… (२) छात्रौ ………………………… (७) शब्दान् सम्यक् लिखितवन्तौ। ………………………… (१) छात्रः सर्वान् अपि ………………………… (१०) शब्दान् सम्यक् लिखितवान्। अवशिष्टाः ………………………… (१२) छात्राः ………………………… (९) शब्दान् सम्यक् लिखितवन्तः।
उत्तर

पूर्णः गद्यांशः इत्थम् —

एका (१) पाठशाला अस्ति। तत्र त्रयः (३) अध्यापकाः सन्ति। साहित्यकक्षायां विंशतिः (२०) छात्राः सन्ति। एकस्मिन् दिने एकः (१) निरीक्षकः आगतवान्। तस्मिन् दिने साहित्यकक्षायां पञ्चदश (१५) छात्राः उपस्थिताः। पञ्च (५) अनुपस्थिताः। निरीक्षकः दश (१०) शब्दान् लेखितुम् उक्तवान्। द्वौ (२) छात्रौ सप्त (७) शब्दान् सम्यक् लिखितवन्तौ। एकः (१) छात्रः सर्वान् अपि दश (१०) शब्दान् सम्यक् लिखितवान्। अवशिष्टाः द्वादश (१२) छात्राः नव (९) शब्दान् सम्यक् लिखितवन्तः।

योग्यताविस्तरः — पृष्ठ 112–114संख्येयशब्दाः, संख्या (एकतः शतपर्यन्तम्), संकटनाशनं श्रीगणेशस्तोत्रम्

योग्यताविस्तरः
प्र.1संख्येयशब्दाः — (संख्या, पूरणशब्दाः — पुं., स्त्री., नपुं.) सारिणीम् अभ्यस्यन्तु।
उत्तर

संख्येयशब्दः बताता है ‘कितने’, और पूरणशब्दः बताता है ‘कौन-से क्रम पर’। पूरणशब्द विशेषण हैं, अतः तीनों लिङ्गों में उनके तीन रूप बनते हैं।

संख्येयशब्दःसंख्यापूरणशब्दः — पुं.पूरणशब्दः — स्त्री.पूरणशब्दः — नपुं.
एकम्१प्रथमःप्रथमाप्रथमम्
द्वे२द्वितीयःद्वितीयाद्वितीयम्
त्रीणि३तृतीयःतृतीयातृतीयम्
चत्वारि४चतुर्थःचतुर्थीचतुर्थम्
पञ्च५पञ्चमःपञ्चमीपञ्चमम्
षट्६षष्ठःषष्ठीषष्ठम्
सप्त७सप्तमःसप्तमीसप्तमम्
अष्ट८अष्टमःअष्टमीअष्टमम्
नव९नवमःनवमीनवमम्
दश१०दशमःदशमीदशमम्
एकादश११एकादशःएकादशीएकादशम्
द्वादश१२द्वादशःद्वादशीद्वादशम्
त्रयोदश१३त्रयोदशःत्रयोदशीत्रयोदशम्
चतुर्दश१४चतुर्दशःचतुर्दशीचतुर्दशम्
पञ्चदश१५पञ्चदशःपञ्चदशीपञ्चदशम्
षोडश१६षोडशःषोडशीषोडशम्
सप्तदश१७सप्तदशःसप्तदशीसप्तदशम्
अष्टादश१८अष्टादशःअष्टादशीअष्टादशम्
नवदश१९नवदशःनवदशीनवदशम्
विंशतिः२०विंशःविंशीविंशम्
प्र.2संख्या (एकतः शतपर्यन्तम्) — सारिणीम् अभ्यस्यन्तु।
उत्तर

एक से सौ तक की संस्कृत संख्याएँ —

१–१०शब्दः११–२०शब्दः२१–३०शब्दः३१–४०शब्दः४१–५०शब्दः
१एकम्११एकादश२१एकविंशतिः३१एकत्रिंशत्४१एकचत्वारिंशत्
२द्वे१२द्वादश२२द्वाविंशतिः३२द्वात्रिंशत्४२द्विचत्वारिंशत्
३त्रीणि१३त्रयोदश२३त्रयोविंशतिः३३त्रयस्त्रिंशत्४३त्रिचत्वारिंशत्
४चत्वारि१४चतुर्दश२४चतुर्विंशतिः३४चतुस्त्रिंशत्४४चतुश्चत्वारिंशत्
५पञ्च१५पञ्चदश२५पञ्चविंशतिः३५पञ्चत्रिंशत्४५पञ्चचत्वारिंशत्
६षट्१६षोडश२६षड्विंशतिः३६षट्त्रिंशत्*४६षट्चत्वारिंशत्*
७सप्त१७सप्तदश२७सप्तविंशतिः३७सप्तत्रिंशत्४७सप्तचत्वारिंशत्
८अष्ट१८अष्टादश२८अष्टाविंशतिः३८अष्टत्रिंशत्४८अष्टचत्वारिंशत्
९नव१९नवदश२९नवविंशतिः३९नवत्रिंशत्४९नवचत्वारिंशत्
१०दश२०विंशतिः३०त्रिंशत्४०चत्वारिंशत्५०पञ्चाशत्
५१–६०शब्दः६१–७०शब्दः७१–८०शब्दः८१–९०शब्दः९१–१००शब्दः
५१एकपञ्चाशत्६१एकषष्टिः७१एकसप्ततिः८१एकाशीतिः९१एकनवतिः
५२द्विपञ्चाशत्६२द्विषष्टिः७२द्विसप्ततिः८२द्व्यशीतिः९२द्विनवतिः
५३त्रिपञ्चाशत्६३त्रिषष्टिः७३त्रिसप्ततिः८३त्र्यशीतिः९३त्रिनवतिः
५४चतुःपञ्चाशत्६४चतुष्षष्टिः७४चतुस्सप्ततिः८४चतुरशीतिः९४चतुर्णवतिः
५५पञ्चपञ्चाशत्६५पञ्चषष्टिः७५पञ्चसप्ततिः८५पञ्चाशीतिः९५पञ्चनवतिः
५६षट्पञ्चाशत्६६षट्षष्टिः७६षट्सप्ततिः८६षडशीतिः९६षण्णवतिः
५७सप्तपञ्चाशत्६७सप्तषष्टिः७७सप्तसप्ततिः८७सप्ताशीतिः९७सप्तनवतिः
५८अष्टपञ्चाशत्६८अष्टषष्टिः७८अष्टसप्ततिः८८अष्टाशीतिः९८अष्टनवतिः
५९नवपञ्चाशत्६९नवषष्टिः७९नवसप्ततिः८९नवाशीतिः९९नवनवतिः
६०षष्टिः७०सप्ततिः८०अशीतिः९०नवतिः१००शतम्
प्र.3संकटनाशनं श्रीगणेशस्तोत्रं पठन्तु गायन्तु च।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्॥
भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्॥
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च॥
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥
उत्तर

यह स्तोत्र पढ़ने और गाने के लिए है। इसमें गणेश जी के बारह नाम पूरणवाचक शब्दों (प्रथमम्, द्वितीयकम् … द्वादशम्) के क्रम से गिनाए गए हैं —

क्रमःपूरणपदम्गणेशनामनाम का भाव
१प्रथमम्वक्रतुण्डःटेढ़ी सूँड वाले
२द्वितीयकम्एकदन्तःएक दाँत वाले
३तृतीयम्कृष्णपिङ्गाक्षःश्याम-भूरे नेत्रों वाले
४चतुर्थकम्गजवक्त्रःहाथी के मुख वाले
५पञ्चमम्लम्बोदरःबड़े उदर वाले
६षष्ठम्विकटःविशाल रूप वाले
७सप्तमम्विघ्नराजेन्द्रःविघ्नों के अधिपति
८अष्टमम्धूम्रवर्णःधूम्र-वर्ण वाले
९नवमम्भालचन्द्रःमस्तक पर चन्द्र धारण करने वाले
१०दशमम्विनायकःश्रेष्ठ नायक
११एकादशम्गणपतिःगणों के स्वामी
१२द्वादशम्गजाननःहाथी जैसे मुख वाले

परियोजनाकार्यम् — पृष्ठ 114पाठानुक्रमणिका तथा संख्यापदाभ्यासः

परियोजनाकार्यम्
प्र.1पाठ्यपुस्तकस्य पाठानुक्रमणिकां दृष्ट्वा प्रथमपाठतः दशमपाठपर्यन्तं पूरणप्रत्ययान्तशब्दैः क्रमशः पाठानां नामानि लिखन्तु।
उत्तर
क्रमःपूरणप्रत्ययान्तशब्दःपाठस्य नामपृष्ठम्
१प्रथमः पाठःवन्दे भारतमातरम्1
२द्वितीयः पाठःनित्यं पिबामः सुभाषितरसम्15
३तृतीयः पाठःमित्राय नमः29
४चतुर्थः पाठःन लभ्यते चेत् आम्लं द्राक्षाफलम्39
५पञ्चमः पाठःसेवा हि परमो धर्मः47
६षष्ठः पाठःक्रीडाम वयं श्लोकान्त्याक्षरीम्57
७सप्तमः पाठःईशावास्यम् इदं सर्वम्71
८अष्टमः पाठःहितं मनोहारि च दुर्लभं वचः85
९नवमः पाठःअन्नाद् भवन्ति भूतानि96
१०दशमः पाठःदशमः कः ?104

नमूना उत्तर (वाक्यरूपेण):

प्रथमः पाठः — ‘वन्दे भारतमातरम्’ अस्ति।
द्वितीयः पाठः — ‘नित्यं पिबामः सुभाषितरसम्’ अस्ति।
तृतीयः पाठः — ‘मित्राय नमः’ अस्ति।
… दशमः पाठः — ‘दशमः कः ?’ अस्ति।
प्र.2सारिण्यां विद्यमानानां संख्यापदानाम् अभ्यासं कुर्वन्तु। (संख्या — पुंलिङ्गम्, स्त्रीलिङ्गम्, नपुंसकलिङ्गम्) — ‘पञ्चतः आरभ्य संख्याशब्दानां त्रिषु लिङ्गेषु समानरूपाणि भवन्ति।’
उत्तर

सारिणी (पुस्तकानुसारम्) —

संख्यापुंलिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
१एकःएकाएकम्
२द्वौद्वेद्वे
३त्रयःतिस्रःत्रीणि
४चत्वारःचतस्रःचत्वारि
५पञ्चपञ्चपञ्च

अभ्यासार्थं नमूना-वाक्यानि (अपने वाक्य भी इसी ढंग से बनाइए) —

पुं. — एकः बालकः, द्वौ बालकौ, त्रयः बालकाः, चत्वारः अध्यापकाः, पञ्च छात्राः क्रीडन्ति।
स्त्री. — एका बालिका, द्वे बालिके, तिस्रः नद्यः, चतस्रः लताः, पञ्च अङ्गुलयः सन्ति।
नपुं. — एकं पुस्तकम्, द्वे पुष्पे, त्रीणि फलानि, चत्वारि गृहाणि, पञ्च वस्तूनि सन्ति।

Chapter 10 of 13 – Sanskrit

Also for This Chapter

NCERT Solutions Class 7 Sanskrit Chapter 10 Dashamah Kah – Overview

ClassClass 7
SubjectSanskrit
Chapter10 – Dashamah Kah
Session2027
FormatFull answers on this page + PDF

NCERT Solutions Class 7 Sanskrit Chapter 10 – FAQs

Where can I download NCERT Solutions Class 7 Sanskrit Chapter 10 Dashamah Kah PDF?

Read every answer on this page, or download the free PDF from the table at the top.

Is this for the 2027 session?

Yes, it follows the latest NCERT Class 7 Sanskrit book for 2027.

How many questions are solved in NCERT Class 7 Sanskrit Chapter 10?

All questions of the chapter – the in-text questions, activities and the end-of-chapter exercises.

How should I use these solutions?

Read the chapter in the NCERT book first, attempt the questions yourself, then check your answers here.

Official website: ncert.nic.inNational Council of Educational Research and Training publishes date sheets, admit cards and results here
Visit

Ask a question

?

Loading comments…